धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते मार्गे गात्रं क्षिपति बकुलामोदगर्भस्य वायोः।
दावप्रेम्णा सरसबिसिनीपत्रमात्रान्तराय— स्ताम्यन्मूर्तिश्श्रयति बहुशो मृत्यवे चन्द्रपादान्॥ १०७॥
यच्चैतन्मरणतां दशमीं कामसूत्रकाराः कामयमानावस्थामामनन्ति। यदाहुः—'तस्य दश स्थानानि चक्षुःप्रीतिः, मनस्सङ्गः, सङ्कल्पोत्पत्ती, निद्राच्छेदः, तनुता, विषयेभ्यो व्यावृत्तिः, लज्जाप्रणाशः, उन्मादः, मूर्च्छा, मरणम्' (कासू. ५.१) इति।
इह तु भावेषु मरणानभ्युपगमात् मृत्युयोग्यतैव मरणमुच्यते।
चक्षुःप्रीतिः पुनः मिथोऽभिलाष एव।
कानि तर्हि चित्तजन्मनः दशस्थानानि?
श्रूयन्ताम्—'षडिन्द्रियाणि, वक्त्रं, वाक्, वपुः, चेष्टा' इति। तत्र—
मनसि चिन्ता, अनुस्मरणं च ।
बुद्धीन्द्रियेषु विषयव्यावृत्तिर्निद्राच्छेदश्च।
वक्त्रे लज्जाप्रणाशः उन्मादश्च।