वाचि गुणकीर्तनं विलापश्च।
चेष्टायां जाड्यं मूर्च्छा च। एवमेते मनोविकारा इत्युच्यन्ते। तासु१—
NOTES pg=1260! १. 'विकाराणीत्युच्यन्ते तासु' इति मुद्रणा चोशेरे राघवे च। 'विकारा इ॰' इत्यस्माकं योजना। तेष्विति वक्तव्ये तास्विति 'षडिन्द्रिय—वक्त्र—वाग्वपुश्चेष्टाश्चित्तजन्मनो दश स्थानानी'—ति चेष्टान्तं सूत्रं परिकल्प्याऽन्तिमां चेष्टां परामृशता ग्रन्थकृताऽवोचीति समाधेयम्।
सअणे चिंतामइअं काऊण पिअं णिमीलिअच्छीए।
अप्पाणो उवऊढो पासिढिलवलआहिँ वाहाहिँ॥ १०८॥
(शयने चिन्तामयं कृत्वा त्वां/प्रियं निमीलिताक्ष्या।
आत्मा अवगूढः प्रशिथिलवलयाभ्यां बाहुभ्याम्॥)