जेहिँ चिअ जीविज्जइ तुह (सअ) संकप्प—संगम—सुहेहिँ।
खणविघडिएहिं लाहं तेहिं ण अ जाणइ वराई॥ १०९॥
(यैरेव जीव्यते तव/शतसङ्कल्पसङ्गमसुखैः।
क्षणविघटितैः लाभं तैः न च नीयते वराकी॥)
विषयव्यावृत्तिः यथा—(विसा. ३.२)
सौधादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवीं द्वारात् त्रस्यति चित्रकेलिसदसो वेषं विषं मन्यते।
आस्ते केवलमब्जिनीकिसलयप्रस्तारशय्यातले सङ्कल्पोपनत—त्वदाकृतिरसायत्तेन चित्तेन सा॥ ११०॥
निद्राच्छेदो यथा—(गास. ५.८७)
तुह विरहुज्जुग्गिज्जागरओ सिविणे वि ण देइ दंसणसुहाइं।
वाहेण जहालोअणविणोअणं पि से विहअं॥ १११॥