गुणकीर्तनं यथा—(सक. ५.१३७)
विलिम्पत्येतस्मिन् मलयजरसार्द्रेण महसा दिशां चक्रं चन्दे सुकृतमथ तस्या मृगदृशः।
दृशोर्बाष्पः पाणौ वदनमसवः कण्ठकुहरे हृदि त्वं ह्नीः पृष्ठे वचसि च गुणा एव भवतः॥ ११४॥
यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थामिमं कथं जनम्।
इति स्वहस्तालिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः॥ ११५॥
तस्यास्तापमहर्निशं स कथयाम्येणीदृशस्ते कथं पद्मिन्यास्सरसं दलं विनिहितं यस्याश्शमायोरसि।
आदौ शुष्यति सङ्कुचत्यनु ततः चूर्णत्वमापद्यते पश्चान्मुर्मुरतां दधद्दहति च श्वासावधूतं सखीः॥ ११६॥