भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 541 to 550 of 890 verses
इङ्गिताकारज्ञानमपि विशेषतस्तत्र प्रसिद्धायां 'द्वितीयेऽहनि वाचि, वक्त्रे, दृष्ट्यां च प्रसादमस्या लक्षयित्वा पुनरपि कथां प्रवर्तयेदिङ्गिताकारांश्च लक्षयेद्' (कामसू. ५.४) इत्यभिहितात्। 'ते दर्शने प्रसीदति, विरहे उद्विजते, विहसितं कृत्वा सम्भाषते, आदरेणोपमन्त्रयते, आसन्नमासनं ददाति, इष्टेषूत्सवेषु स्मरति, भक्ष्येषु ॰ ॰ ॰ ॰ हारं गच्छति, क्वासि ॰ ॰ ॰ त्वरयितुं ॰ ॰ ॰ किं वा कृतमिति पृच्छति, विविक्ते दर्शयते, गृह्यमाचष्टे, शङ्कास्थानेषु नाभिशङ्कते, कथायां रमते, परविज्ञापनायां ॰ ॰ ॰ पेक्षते, वाक्यं प्रतिगृह्‍णाति, पथ्यमुक्तं सहते, हस्तेन, स्पृशति, श्लाघ्येनोपहसनि, परोक्षे गुणान् ब्रवीति ॰ ॰ ॰ तद्भक्तान् पूजयति, मानं वर्धयति, अर्थं करोति, अनर्थं प्रतिहन्ति, कृत्येष्वात्मानं नियोजयति, आख्यायकमनुयुङ्क्ते, श्रुत्वा चिन्तयति, जृम्भते, निःश्वसिति; प्रीतिदायं च ददाति, पुनर्दर्शनानुबन्धं विसृजति, साधुवादिनी सती किमिदमशोभनमभिधत्स इति कथामनुबध्नाति, नायकस्य साध्य ॰ ॰ ॰ ॰ पूर्वसिद्धं च तत्सम्बन्धं दर्शनं कथां नियोगं वा स्वयमकथयन्ती तया कथ्यमानं काङ्क्षति, नायकमनोरथेषु च सपरिभवं नाम सहते, न च निर्वदति, तन्मित्रेषु विश्वसिति, तया सह क्रीडामभिनन्दति, स्वकर्मसु चैनां प्रभविष्णुरिव नियुङ्क्ते'१ (कासू. ५.४) इति। उदाहरणं यथा—(मामा. ३.२., ३)

व्रजति विरहे वैचिञ्यं नः प्रसीदति सन्निधौ रहसि रमते प्रीत्या दायं ददात्यनुवर्तते।

गमनसमये कण्ठे लग्ना निरुध्य निरुध्य मां सपदि शपथैः प्रत्यावृत्तिं प्रणम्य च याचते॥ १२०॥

NOTES pg=1236! १. ते दर्शने प्रसीदतीत्यारभ्य प्रभविष्णुरिव नियुङ्क्त' इति यावत् सर्वाणि वाक्यानि भोजरचितान्येव॥

शाकुन्तलादीनितिहासवादान् प्रस्तावितानन्यपरैर्वचोभिः।

श्रुत्वा मदुकत्सङ्गनिवेशिताङ्गीं चिराय चिन्तास्तिमितत्वमेति॥ १२१॥

॰ ॰ ॰ हार्यं (?) यथा चोदाहृतमिङ्गिताकारेषु स्थानस्थानेषु पुरस्ताद् दर्शितेङ्गिताकारां नायकाभिज्ञानैरुपबृंहयेत्, सा चेत् संस्तुता स्यात्। असंस्तुतां तु गुणकथनैरनुरागकथाभिश्च आवर्जयेत्। (कासू. ५.४) 'मनोहराणि उपायनानि ताम्बूलम् अनुलेपनं स्त्रजमङ्गुलीयकं ॰ ॰ तेषु नायकस्य नखदशनपदानि तानि तानि चिह्नानि च स्युः। पत्रच्छेद्यानि च नानाभिप्रायाकृतीनि दर्शयेत्। लेखगर्भाणि च कर्णपत्रादीनि। तेषु च तन्मानोरथाख्यानं प्रति प्राभृतदाने चैनां नियोजयेद्' इति (कासू. ५.४)।

(८. उपायज्ञानम् — ४)

उपायज्ञानम्। तेषु च प्राग् दर्शितेङ्गिताकारां नायकाभिज्ञानैरुपबृंहयेत्।

सा चेत्संस्तुता स्यादिति साम।

Showing 541 to 550 of 890 verses