असंस्तुतां गुणकथनैरनुरागसङ्कथाभिश्चैनां नियोजयेदिति भेदः।
मनोहराण्युपायनानि ताम्बूलमनुलेपनं स्त्रजमङ्गुलीयकं वासो वा तेन प्रहितानि।
तानि च चिह्नानि स्युरिति दण्डः।
पत्रच्छेद्यानि नानाभिप्रायाकृतीनि प्रेषयेत् इति भेददण्डौ।
लेखगर्भाणि, कर्णपत्रादीनीति दानभेदौ।
तेषु च तन्मनोरथाख्यानमिति सामभेदौ। प्रतिप्राभृतदाने चैनां नियोजयेदिति दानदण्डौ। ते च प्रत्येकं चत्वारः पञ्चधा भवन्ति।
गुणकीर्तनम्, सम्बन्धोपाख्यानम्, परस्परोपकारसन्दर्शनम्, आयतिप्रदर्शनम्, आत्मोपधानं चेति साम।
१. तेष्वभिज्ञादिप्रशंसा गुणकीर्तनम्। यथा—(सक. ५.३६९)
कुलममलिनं भद्रा मूर्तिः मतिश्श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम्।