समानयंस्तुल्यगुणं वधूवरं चिराय वाच्यं न गतः प्रजापतिः॥ १५५॥
१४. उभयापेक्षया यथा—(कादकसा. ५.५९)
लज्जास्तिमितमासीनामथ कादम्बरीं बलात्।
महाश्वेता गृहाचारं चन्द्रापीडे न्यधापयत्॥ १५६॥
. . . संवाहंति जंणिआजंजं। आलीहउं . . दे रोमंचस्समुप्पहइ॥ १५७॥
सखीदूतनायिकानां प्रभुत्वोत्साहमन्त्रदैवभेदाच्छक्तिविवेचनप्रपञ्चः। तत्र —
१. सख्युः प्रभुशक्तिविवेचनं यथा—(मवीच. १.५४)
दोर्लीलाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत— ष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः।