८. उभयान/अनुभयापेक्षया यथा—(रुद्रटालङ्कारे ६.४७ नमिसाधु)
पृष्टः काले वदति स माषं तद्विपरीतं सम्यमरण्ये।
लुम्पति चोष्ट्रे रं वा षं वा तस्मै दत्ता विकटनितम्बा॥ १४९॥
९. गुरुकृते नायकापेक्षया यथा—(मामा. १.१३)
अपत्यसम्बन्धविधिप्रतिज्ञा प्रियस्य नीता सुहृदः स्मृतिं च।
अलोकसामान्यगुणस्तनूजः प्ररोचनार्थं प्रकटीकृतश्च॥ १५०॥
१०. नायिकापेक्षया यथा—(कुसं. १.५८)
तमर्घ्यमर्घ्यादिभिरद्रिनाथः स्वर्गौकसामर्चितमर्चयित्वा।
आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम्॥ १५१॥
११. उभयापेक्षया यथा—(मामा. १.१५)