विशेषतस्तु बालत्वात् तयोर्विनतभावयोः।
तेन माधवमालत्योः कार्यस्स्वमतिनिह्नवः॥ १५२॥
१२. अनुभयापेक्षया यथा—(रघु. १३.८५)
इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम्।
आत्मापराधं नुदतीमुपेतां शुश्रूषया पार्थिव! पादयोस्ते॥ १५३॥
सहायकृतेषु नायकापेक्षया यथा—(रत्ना. १.७)
प्रारम्भेऽस्मिन् स्वामिनो वृद्धिहेतौ दैवेनेत्थं दत्तहस्तावलम्बे।
सिद्धेर्भ्रान्तिर्नास्ति सत्यं तथापि स्वेच्छाकारी भीत एवास्मि भर्तुः॥ १५४॥
१३. नायिकापेक्षया यथा—(शाकु. ५.१५)
त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः शकुन्तला मूर्तिमतीव सत्क्रिया।