द्राक्पर्यस्तकवाटसम्पुटमित—ब्रह्माण्डभाण्डोदर— भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति॥ १५८॥
२. सख्युः उत्साहशक्तिविवेचनं यथा—(बाभा. १.८३)
'कस्य द्रोणो धनुषि न गुरुः स्वस्ति देवव्रताय छन्नाभ्यासः'॥ १५९॥
३. सख्युः मन्त्रशक्तिविवेचनं यथा—(मामा. ४.९)
'प्रमथ्य क्रव्यादं मरणसमये'॥ १६०॥
४. सख्युः दैवशक्तिविवेचनं यथा—(मामा. ३.१८)
वयं बत विदूरतः क्रमगता वसोः कन्यका कथं तदवपातितादधिगतायुधः सम्भ्रमात्।
कुतोऽपि मकरन्द एत्य सहसैव मध्ये स्थितो दृढं परशुनाहतो व्यसुरसौ कृतश्चामुना॥ १६१॥