द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात्।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः॥ १६५॥
९. नायकस्य प्रभुशक्तिविवेचनं यथा—(मामा. ५.३२)
धैर्यं निधेहि हृदये हत एष पापः किं वा कदाचिदपि केनचिदन्वभावि।
सारङ्गसंहृतिविधाविभकुम्भकूटकुट्टाकपाणिकुलिशस्य हरेः प्रमादः॥ १६६॥
१०. उत्साहशक्तिविवेचनं यथा—
येनारोपणकर्मणापि बहवो वीरव्रतं त्याजिताः कार्यं सज्जितबाणमीश्वरधनुस्तद्दोर्भिरेभिर्मुदा।
स्त्रीरत्नं तदगर्भसम्भवमितो लभ्यं च लीलायितात् तेनैषा मम फुल्लपङ्कजवनी जाता दृशां विंशतिः॥ १६७॥
११. मन्त्रशक्तिविवेचनं यथा—(मामा. ४.४)
'समानप्रेमाणं जनमसुलभं प्रार्थितवतो वि धौ वामे'॥ १६८॥