५. दूतस्य प्रभुशक्तिविवेचनं यथा—(मामा. ९.५३)
गुरुचर्यातपस्तन्त्रमन्त्रयोगाभियोगजाम्।
इमामाक्षेपणीं सिद्धिमातनोमि हिताय वः॥ १६२॥
६. मन्त्रशक्तिविवेचनं यथा—(मामा. १.१४)
तां याचते नरपतेर्नर्मसुहृन्नन्दनो नृपमुखेन।
तत्साक्षात्प्रतिषेधः कोपाय शिवस्त्वयमुपायः॥ १६३॥
७. उत्साहशक्तिविवेचनं यथा—(मामा. ४.५) (पृ. ७९१)
'मा वां सपत्नेष्वपि नाम तद् भूत् पापं यदस्याम्'॥ १६४॥
८. दैवशक्तिविवेचनं यथा—(रत्ना. १.६)