को दोषः स्वयमानयामि यदि तं तस्यापराधैरहं नो दूये स यथातथास्तु मनसः सा धारणा नान्यतः॥ १२५॥
कृतककृतकैर्मायाशाठ्यैः त्वयास्म्यतिवञ्चिता निभृतनिभृतैः कार्यालापैर्मयाप्युपलक्षितम्।
भवतु विदितं नेष्टाहं ते न मे दयितो भवान् अहमसहना त्वं निःस्नेहः समेन समं गतम्॥ १२६॥
६. प्रोषितपतिकाश्रयो यथा—
सहि ताव अच्छउ च्चिअ अलाहि किं बाउएण लेहेण।
एआरिसं लिहंताण एंति पहिआ विएसाओ॥ १२७॥
(सखि! तावत् आस्तामेव, अलं किं बहुकेन लेखेन।
एताद्ृशं लिखतां यन्ति पथिका विदेशात्?॥)
७. विरहोत्कण्ठिताश्रयो यथा—(गास. १.१७)