कलहंतरिआए विअअणाहणं तीए दूमिओ पडिवक्खो॥ १२३॥
(हस्तसलिलाहतया अपहरन्त्या दत्तसखीसँल्लापम्।
कलहान्तरितयैव गतनाथानां तया दूनः प्रतिपक्षः॥)
णिम्मविअ—मंडणाणं वि सोहा वासअ—माणिआणं विमलिआ।
मोहं णेव पइणो परिओसो च्चिअ पसाहणं जुवईणं॥ १२४॥
(निर्मितमण्डनानामपि शोभा वासकविमानितानां विमलिता।
मोघं नैव, पत्युः परितोष एव प्रसाधनं युवतीनाम्॥)
मा श्रौषीः सखि! यद् वदामि बलवत्प्राणान्तिकोत्कण्ठया निव्रीडास्मि कृता भविष्यति पुनर्मानप्रसूतं यशः।