भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 571 to 580 of 890 verses
४. अस्मिन्नेवंगते इदमेदं भविष्यतीत्याशाजननं आयतिप्रदर्शनम्। यथा—(बारा. १.३४)

सोऽयं स्वयंग्रहणदुर्ललितो दशास्यस्त्वां याचते दुहितरं पणपूर्वमेव।

सम्बन्धसन्धिममुना च सहानुभूय वंशो निमेर्जयतु यावदियं धरित्री॥ १२५॥

५. योऽहं स भवान्, यन्मम द्रव्यं तद्भवतः, स्वकृत्येषूपयुज्यतामित्यात्मोपाधानं, यथा—(कुसं. ५.५०)

कियच्चिरं श्रामयसि गौरि विद्यते ममापि पूर्वाश्रमसञ्चितं तपः।

तदर्धभागेन लभस्व काङ्क्षितं पतिं तमिच्छामि च साधु वेदितुम्॥ १२६॥

(२. भेदः —५)

अन्यविद्वेषणम्, अन्यव्यवर्तनम्, अन्योपभोगदर्शनम् अन्यानुरागकथनम्, अन्यसौभाग्यप्रकाशनं चेति भेदः। तदुक्तम्— (कासू. ५. ४, ६४, ६५, पृ. ५६७ चौखं. सं. १९६४)

विद्वेषं ग्राहयेत् पत्यौ रमणीयानि वर्णयेत्।

चित्रान् सुरतसम्भोगानन्यासामपि दर्शयेत्॥ १२७॥

Showing 571 to 580 of 890 verses