सुरअसुहं पुण मुद्धे होहिइ अक्खण्डिए सीले॥ १३०॥
(क्रूरस्य कारणार्थं दीयते आत्मा पत्युर्निजकस्य।
सुरतसुखं पुनर्मुग्धे भविष्यति अखण्डिते शीले॥)
३. चित्रान् सुरतसम्भोगानन्यासामपि दर्शयेदित्यन्योपभोगदर्शनम्।
अपेतव्याहारं धुतविविधशिल्पव्यतिकरं करस्पर्शारम्भप्रगलितदुकूलान्तशयनम् ।
मुहुर्बद्धोत्कम्पं दिशि दिशि मुहुः प्रेरितदृशो— रहल्यासुत्राम्णोः क्षणिकमिह तत्सङ्गतमभूत्॥ १३१॥
४. नायकस्यानुरागं च पुनश्च रतिकौशलं इत्यन्यानुरागकथनम्। यथा—
ससिमुहि मुहस्स लच्छी घणालिणथण चक्कजुअं।
तणुओअरि तणुआअइ हलिअसुओ कुणउ जुत्तं॥ १३२॥