भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 601 to 610 of 890 verses
(शशिमुखि! मुखस्य लक्ष्मीः घनालीनस्तननितम्ब—चक्रयुगम्।

तनुकोदरि! तनुकायते हलिकसुतः करोतु युक्तम्॥)

५. प्रार्थनं चापरस्त्रीभिरवष्टम्भं च वर्णयेदित्यन्यसौभाग्यकथनम्। यथा—(मामा. २.११)

असौ विद्याधारश्शिशुरपि विनिर्गत्य सदना— दिहायातः सम्प्रत्यविकलशरच्चन्द्रमधुरः।

यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव॥ १३३॥

(३. दानम् —५)

(देयविसर्गः) गृहीतानुर्वतनम्, आवर्तनप्रतिपादनं, स्वद्रव्यदानम्, आत्मपरस्वेषु स्वयंग्राहद(नं) चेति दानम्। तेषु—

१. जित—न्यस्त—प्रयुक्त—प्रतिश्रुतादीनां समर्पणं देयविसर्गः। यथा—

दीपोत्सवेऽद्य भवता शतमेकविंश— द्यूते जिता कितव! सा स्वयमाहृतानि।

गोदावरीतटवनेषु गता विचेतुं मुक्ताकदम्बकुसुमानि सकेसराणि॥ १३४॥

Showing 601 to 610 of 890 verses