२. अदत्तस्वीकृतस्य मर्षणं गृहीतानुवर्तनम्। यथा—
सञ्जग्मुषा सुभग! भीमरथीनिकुञ्जे संख्यास्स्तनांशुकमगृह्यत यत् त्वया नः।
स्वप्ने ददासि गमयन्न शठत्वमेव तुष्यामुना किमिति दुर्लभदर्शनोऽसि॥ १३५॥
३. स्वयंगृहीतस्य प्रत्यर्पणमावर्तप्रतिपादनम्। यथा—(रघु. १६.८६)
इत्यूचिवानुपहिताभरणः क्षितीशं श्लाघ्यो भवान् स्वजन इत्यनुभाषितारम्।
संयोजयां विधिवदास समेतबन्धुः कन्यामयेन कुमुदः कूलभूषणेन॥ १३६॥
४. आत्मीयस्य हारकेयूरादेः प्रयत्ननो वितरणं स्वद्रव्यदानम्। यथा—
आमुच्यतामिह सुधारसधाम्नि कण्ठे कादम्बरीप्रहित एष स शेषहारः।
अस्याः कुमार! तव निर्जितमन्मथायाः मूर्तेर्गुणानुगुणमाभरणं किलेति॥ १३७॥
५. ममान्यस्य सा यदस्ति तद्दृश्यतामिति आत्मपरस्वेषु स्वयंग्राहदानम्। यथा—(मामा. ४.१)