१२. दैवशक्तिविवेचनं यथा—(मामा. ५. २८) (पृ. ५५४)
'राहोश्चन्द्रकलामिवाननचरीं दैवात् समासाद्य मे'॥ १६९॥
१३. नायिकायाः प्रभुशक्तिविवेचनं यथा—(मामा. २.१)
मनोरा/रोगस्तीव्रं विषमिव विसर्पन्नविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव।
हिनस्ति प्रत्यङगं ज्वर इव गरीयानित इतो न मां त्रातुं तातः प्रभवति न चाम्बा न भवती॥ १७०॥
१४. मन्त्रशक्तिविवेचनं यथा—(मामा. २.२)
'ज्वलतु गगने रात्रौ रात्रावखण्डकलश्शाशी'॥ १७१॥