भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम्।
प्रकृतिसुभगा ह्येते भावा मदस्य च हेतवो व्रजति पुरुषो यैरुन्मादं त एव तवाङ्कुशाः॥ १२२॥
२. मैत्र्यादिसंकीर्तनं सम्बन्धोपाख्यानम्। यथा—(कुसं. ५.३९)
प्रयुक्तसत्कारविशेषमात्मना न मां परं सम्प्रतिपत्तुमर्हसि।
यतस्सतां सन्नतगात्रि! सङ्गतं मनीषिभिस्साप्तपदीनमुच्यते॥ १२३॥
३. स्वपक्षपरपक्षयोरन्यग्रहाख्यानं परस्परोपकारसन्दर्शनम्। यथा—(शाकु. ५.१७)
णावेक्खिओ गुरुअणो इमीए ण तुए वि पुच्छिओ बंधू।
एक्केक्कमेव्व चरिए भणामि किं एक्कमेक्कस्य॥ १२४॥
(नापेक्षितो गुरुजनोऽनया न त्वयापि पृष्टः बन्धुः।
एकैकमेव चरिते भणामि किमेकमेकस्य॥)