प्रेयान् मनोरथसहस्रवृतः स एष सुप्तप्रमत्तजनमेतदमात्यवेश्म।
प्रौढं तमः कुरु कृतज्ञतयैव भद्रमुत्क्षिप्तमूकमणिनूपुरमेहि यावः॥ १४६॥
इअ जा मणम्मि ऊसा पुरंतवाम—त्थणी वलंतेई/वेआरेइ।
ता अणिरुद्धो सुद्धंतमाणिओ चित्तलेहाए॥ १४७॥
(इति यावन्मनसि उषा स्फुरद्वामस्तनी वलमाना/विचारयति।
तावद् अनिरुद्धः शुद्धान्तमानीतः चित्रलेखया॥)
७. उभयापेक्षया यथा—(मामा. ६.१५)
'पुरश्चक्षूरागस्तदनु मनसो मन्यु(नन्य)परता'॥ १४८॥