चन्द्रापीडं सा च जग्राह कण्ठे कण्ठस्थानं जीवितं च प्रपेदे।
तेनापूर्वां सा समुल्लासलक्ष्मीमिन्दुस्पृष्टा सिन्धुवेलेव भेजे॥ १४३॥
पढम—पहाएँ पुहक्किओ पओस—काल—पडिसिद्ध—धीरारंभो।
पेच्छइ गमणद्धपहे चंद—कर—समप्पिए पिए जुअइजणो॥ १४४॥
(प्रथम—प्रभया पृथक्कृत: प्रदोष—काल—प्रतिषिद्ध—धैर्यारम्भः।
प्रेक्षते गमनार्धपथे चन्द्रकरसमर्पितान् प्रियान् युवतिजनः॥)
४. अनुभयकृतं यथा—(मामा. ५.२७)
'त्वत्पाणिपङ्कजपरिग्रहपुण्यजन्मा भूयासम्'॥ १४५॥ (पृ.७८८) इत्यादि दूतकृतेषु नायकापेक्षया नायिकापेक्षया उभयापेक्षया अनुभयापेक्षया च। तेषु—
५. नायकापेक्षया यथा—(मामा. ७.३)