(तव विरहोज्जागरकः स्वप्नेऽपि न ददाति दर्शनसुखानि।
बाष्पेण यदालोकनविनोदनमपि तस्या विहतम्॥)
लज्जाप्रणाशः यथा—(गास. १.५७)—
अगणिअ—सेसजुआणो बालअ बोलीणलोअमज्जाआ।
अह ए भमइ दिसामुहविसारिअच्छी तुह कएण॥ ११२॥
(अगणिताऽशेषयुवा बालक विलीन/व्यतिक्रान्तलोकमर्यादा।
अथ हे भ्रमति दिशामुखविसारिताक्षी तव कृतेन॥)
चन्द्रं चन्दनकर्दमेन लिखितं यन्मार्ष्टि दष्टाधरा कामः पुष्पशरः किलेति सुमनोवर्गं लुनीते च यत्।
वन्द्यं निन्दति यच्च मन्मथमसौ भङ्कत्वाऽग्रहस्ताङ्गुली— स्तत्कामं सुभग! त्वया वरतनुर्वातूलतां लम्भिता॥ ११३॥