(वक्त्रं तस्याः कृशतरकपोलद्वयं कान्तिलक्ष्यं)१ बाष्पाम्भोभिश्चमिति पतितैः सूच्यते च स्तनान्तः।
तस्याः किञ्चित्सुभग! तदभूत्तानवं त्वदवियोगे येनाकस्माद् वलयपदवीमङ्गुलीयं प्रयाति॥ ११७॥
अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुभ्योऽर्पिता दत्तं दैन्यमशेषतः परिजने तापस्सखीष्वाहितः।
अद्य श्वः किल निवृतिं व्रजति सा श्वासैः परं खिद्यते विस्त्रब्धो भव विप्रयोगजनितं दुःखं विमुक्तं तया॥ ११८॥
NOTES pg=1262! १. पाद एषोऽस्माभिर्योजितः।
कथमिव मनोमोहं तस्यास्सखे! कथयामि ते दहनपतिता दृष्टा मूर्तिर्मया नहि वैधवी।
इति तु विदितं नारिरूपस्सलोकदृशां सुधा तव शठतया शिल्पोत्कर्षो विधेर्विघटिष्यते॥ ११९॥