वधुकाया मनोरथगर्भिण्याः हस्तौ थरथरायेते॥)
अज्ज मए गंतव्वं घणंधआरे वि तस्स सुहअस्स।
बाला/अज्झा णिमीलअच्छी पअपरिवाडिं घरे कुणइ॥ १३९॥
(अद्य मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य।
बाला/ आर्या निमीलिताक्षी पदपरिपाटीं गृहे करोति॥)
दृष्टिं हे प्रतिवेशिनि! क्षणमिहाप्यस्मिन् गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति।
एकाकिन्यपि यामि तद् वरमितः स्रोतस्तमालाकुलं नीरन्ध्राः पुनरालिखन्तु जरठच्छेदा नलग्रन्थयः॥ १४०॥
१५. पात्रावधानं यथा—(गास. ८६५वे.)