स्तुतं माहाभाग्यं यदभिजनतो यच्च गुणतः प्रसङ्गाद् वत्सस्येत्यथ खलु विधेयः परिचयः॥ १३२॥
८. पात्रावधानं यथा—(मामा. १.१९)
शरज्ज्योत्स्ना कान्तं कुमुदमिव तं नन्दयतु सा सुजातं कल्याणी भवतु कृतकृत्यस्स च युवा।
वरीयानन्योन्य—प्रगुण—गुण—निर्माण—निपुणो विधातुर्व्यापारः फलतु च मनोज्ञश्च भवतु॥ १३३॥
९.नायकस्य देशावधानं यथा—(शाकु. १.१५)
शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र॥ १३४॥
१०. कालावधानं यथा—(मामा. ३.१४)
'प्रकृतिललितमेतत्सौकुमार्यैकसारम्'॥ १३५॥