यदिन्दावानन्दं प्रणयिनि जने वा न भजते व्यनक्त्यन्तस्तापं तदयमतिधोरोऽपि विषमम्।
प्रियङ्गुश्यामाङ्गप्रकृतिरपि चापाण्डुमधुरं वपुः क्षामं क्षामं वहति रमणीयश्च भवति॥ १०४॥
लवङ्गिका— इदं वि तस्सिं अवसरे भअवदिं तुवराअंतीए (अवलोइदाए) उदीरिअं आसि। {इदमपि तस्मिन्नवसरे भगवतीं त्वरयन्त्या (अवलोकितया) उदीरितमासीत्।}
कालन्दकी— यावदश्रृणवं मालत्येवास्य मन्मथोन्मादहेतुरिति। ममापि हि स एव निश्चयः. (मामा. ३.१०)
अनुभवं वदनेन्दुरुपागमन्नियतमेव यदस्य महात्मनः।
क्षुभितमुत्कलिकातरलं मनः पय इव स्तिमितस्य महोदधेः॥ १०६॥
नायकयोः विलोकनश्रवणदिवसादारभ्य मिथोऽभिलाषात् चिन्तादिजन्मनः मनोवाग्बुद्धिशरोरस्याकल्यस्य स्थानात् स्थानान्तरोपवर्णनमवस्थानिवेदनम्। तच्च कार्योपन्यासशेषः। यथाह कामन्दकी— (मामा. ३.१०—१२)
'तदेवं प्रकृत्या सुकुमारः कुमारः। तदत्रापरिक्लिष्टपूर्वस्तपस्वी। यतोऽधुना शक्यमनेन मरणमप्यनुभवितुम्। असौ हि—'