लवङ्गिका— सुमरामो। (स्मरामः।)
कामन्दकी— अस्ति विदर्भाधिपस्य नरतेरमात्यः समग्रपुरुषप्रकाण्डचक्र— चूडामणिर्देवरातो नाम, यमशेषभुवनमहनीयपुण्यमहिमानमात्मनः सामर्थ्यात् पितैव ते जानाति यश्च यादृशश्चेति (मामा. २.८/९)।
व्यतिकरितदिगन्ताः श्वेतमानैर्यशोभिः सुकृतिविलसितानां स्थानमूर्जस्वलानाम्।
अकलितमहिमानः केतनं मङ्गलानां कथमपि भुवनेऽस्मिँस्तादृशास्सम्भवन्ति॥ १०२॥
तत उदयगिरेरिवैक एव स्फुरितगुणद्युतिसुन्दरः कलावान्।
इह जगति महोत्सवस्य हेतुर्नयनवतामुदियाय बालचन्द्रः॥ १०३॥
असौ वद्याधारः शिशुरपि विनिर्गत्य भवना— दिहायातस्सम्प्रत्यविकलशरच्चन्द्रमधुरः।
यदलोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुंवलयितवातायनमिव॥ १०४॥
अत्र बालसुहृदा मकरन्देन सह विद्यामान्वीक्षिकीमधीते। स एष माधवो नामेति। कामन्दकी— स खलु मन्मथोद्यानयात्रादिवसात् प्रभृति दुर्मनायमानः परवानिव शरीरोपतापेन। (मामा. ३.८/९)