दुर्दर्शनेन घटतामियमप्यनेनधूमग्रहेण विमला शशिनः कलेव॥ ९७॥
भूयश्च यथापुरस्तादुपायेषु वक्ष्यामः।
यदाह कामन्दकी—(मामा. ३.१)
तथा विनयनम्रापि मया मालत्युपायतः।
नीता कतिपयहेन सखीविस्रम्भसेव्यताम्॥ ९८॥
'नायकयोः चरितमनुकूलतया कामितानि च वर्णयेत्' (कासू. ५.४) इत्यनुवर्तनं, यथा—(मामा. १.२३)
अन्येषु चन्तुषु च यस्तमसावृतेषु विश्वस्य धातरि समः परमेश्वरेऽपि।
सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा मा लज्जया तव कथंचिदपह्रुतिर्भूत्॥ ९९॥
यथा वा— 'उचितस्तावदस्यां भवतोऽभिषङ्ग' इति। 'अमात्यभूरिवसोः आत्मजेत्यपर्याप्तिर्बहुमानस्य इति।' (मामा. १. ३८/३९)