भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 421 to 430 of 890 verses
जनं विद्वानेकस्सकलमतिसन्धाय कपटै— स्तटस्थः स्वानर्थान् घटयति च मौनं च भजते॥ ९४॥

(मामा. १.१७)

२. अभिगामिकयोगस्सुभगङ्करणम्।

यथा— तत्रैव तृतीयषष्‍ठाङ्कयोः (मामा. ३ प्रवेशके)— 'अज्ज किसणचद्दसि त्ति जणणीए समं मालदी संकरउरं गमिस्सदि। तदो एव्वं सोहग्गं बढ्ढइ त्ति देवदाराहणणिमित्तं सहत्थकुसुमावअअं उद्दिसिअ भअवदी लवंगिआदुदीअं मालदिं तं एव्व कुसुमाअरुज्जाणं आणइस्सदि' (अद्य कृष्णचतुर्द्दशीति जनन्या समं मालती शङ्करपुरं गमिष्यति। तत एवं किल सौभाग्यं वर्धत इति देवताराधननिमित्तं स्वहस्तकुसुमावचमुद्दिश्य भगवती लवङ्गिकाद्वितीयां मालतीं तदेव कुसुमाकरोद्यानमानेष्यति।)

यथा च— सहि एसो अङ्गराओ इमा(ओ) कुउममालाओ। म तो इमास्मिं पाणिग्गहणमंगलारम्भे सोहग्गसंपत्तिणिमित्तं देवदाओ अच्चेहिं। (सखि, एष अङ्गरागः; इमाः कुसुममालाः। तदस्मिन् पाणिग्रहणमङ्गलारम्भे सौभाग्यसम्पत्तिनिमित्तं देवता अर्चय।) इति।

३. यथा तत्रैव (जनप्रवादः)— अद्धि)अत्थि) एसा णरिंदवअणाणुरोहेण णंदणस्स पडिवण्णा मालदि त्ति सअलो जणो अमत्तं जुउज्जइ(जुगुच्छइ)। (अस्त्येषा नरेन्द्रवचनानुरोधेन नन्दनस्य प्रतिपन्ना मालतीति सकली जनोऽमात्यं जुगुप्सते।)

यथा वा—

अनुरागप्रवादस्तु वत्सयोस्सार्वलौकिकः।

श्रेयानस्माकमेवं हि प्रतार्यौ राजनन्दनौ॥ ९५॥

(मामा. १.१६)

Showing 421 to 430 of 890 verses