कियच्चिरं श्राम्यसि गौरि! खिद्यसे(विद्यते?) ममापि पूर्वाश्रमसञ्चितं तपः।
तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम्॥ ९२॥
(सैनां शीलतोऽनु)प्रविश्य चाख्यान—कपटैः, सुभगङ्करणयोगैः, जनप्रवादैः, पूर्ववृत्तान्तैः, कविकथाभिः, पारदारिककथाभिश्च विश्वासयेद् (कासू. ५.४.२) इति विश्वासनम्। तेषु—
१. मिथ्यामिथःप्रश्नोत्तरादिभिः प्रयोज्ययोरतिसन्धानं कपटः। यथामालतमाधवे
लवङ्गिका— कुसलं भअवदीए। (कुशलं भगवत्यै।)
कामन्दकी— (निःश्वस्य) कुशलमिव।
लवङ्गिका— (स्वगतं) पत्थावणा क्खु एसा कवडणाडअस्स। (प्रस्तावना खल्वेषा कपटनाटकस्य।)
अवलोकिता— चिराइदं भअवदीए। णं भणामि अस्सत्थसरीरो महाभाओ माहवो त्ति (चिरायितं भगवत्या। ननु भणामि अस्वस्थशरीरो महाभागो माधव इति।)