श्वासाः सन्तु च कन्दुकभ्रमिभुवः किन्तु प्रभावाहिना— मङ्गानां क्रशिमानमुत्कटममुं को नाम नोत्प्रेक्षते॥ ११०॥
प्रियसखि! विपद्दण्डाघातप्रवातपरम्परा— परिचयचले चिन्ताचक्रे विधाय विधिः खलः।
मृदमिव हठात् पिण्डीकृत्य प्रगल्भकुलालवद् भ्रमयति मनो नो जानीमः किमत्र विधास्यति॥ १११॥
३.सख्या अनुमितं यथा—(विसा. २.१४)
यत् तालीदलपाकपाण्डुरदनं यद् दुर्दिनं नेत्रयोः यत् प्रेङ्खोलितकेलिपङ्कजवनाश्वासाः प्रसर्पन्ति च।
गौरी क्रुध्यतु वर्तते यदि न ते तत् कोऽपि चित्ते युवा धिग्धिक्त्वां सहपांसुखेलनसखीलोकेऽपि यन्निह्नवः॥ ११२॥
४. दूत्या दृष्टं यथा—(मामा. २.३)
निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलशेषा मूर्तिः शशिन इव नेत्रेत्सवकरी।
अवस्थामापन्ना मदनदहनोद्दाहविधुरा— मियं नः कल्याणी रमयति मनः कम्पयति च॥ ११३॥