'अण्णं च जाणिदव्वं भअवदीए। एतच्च माहवपदिच्चंदअसणाहं चित्तफलअं। (मालत्याः स्तनांशुकमपनीय) एसा अ तस्स एव्व सहत्थविरइदा कंठविलंबिदा बउलमाला जीविदप्पिअसहित्ति॥ {अन्यच्च ज्ञातव्यं भगवत्या। एतच्च माधवप्रतिच्छन्दकसनाथं चित्रफलकम्। (मालत्याः स्तनांशुकमपनीय) एषा च तस्यैव स्वहस्तविरचिता कण्ठविलम्बिता बकुलमाला जीवितप्रियसखीति।} यद्व्यालव्रणितसुहृत्प्रमोहमुग्धं सौजन्याद् विहितम्'॥ १०८॥ (मामा.४.१) इत्यादि
दुर्वारां मदनशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरः सखीनाम्।
तद्भूयः शुकशिशुशारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति॥ १०९॥
अस्यावस्थानिवेदनात्प्रयोज्य ॰ ॰ ॰ भेदः।
सखी—दूती—नायकोदासीनेषु दृष्टश्रुतानुमितभेदावस्थाज्ञानं प्रपञ्चः। तत्र —
प्रम्लानोत्पलकोमले सखि दृशौ नीलाञ्जनेनाञ्चिते कर्पूरच्छुरणाच्च गण्डफलके संवर्गिकः/र्धिंतः पाण्डिमा।