भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 391 to 400 of 765 verses
यथा वा—(मामा. ३.१४/१५)

'अण्णं च जाणिदव्वं भअवदीए। एतच्च माहवपदिच्चंदअसणाहं चित्तफलअं। (मालत्याः स्तनांशुकमपनीय) एसा अ तस्स एव्व सहत्थविरइदा कंठविलंबिदा बउलमाला जीविदप्पिअसहित्ति॥ {अन्यच्च ज्ञातव्यं भगवत्या। एतच्च माधवप्रतिच्छन्दकसनाथं चित्रफलकम्। (मालत्याः स्तनांशुकमपनीय) एषा च तस्यैव स्वहस्तविरचिता कण्ठविलम्बिता बकुलमाला जीवितप्रियसखीति।} यद्‍व्यालव्रणितसुहृत्प्रमोहमुग्धं सौजन्याद् विहितम्'॥ १०८॥ (मामा.४.१) इत्यादि

अपि च—(रत्‍ना. २.६)

दुर्वारां मदनशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरः सखीनाम्।

तद्भूयः शुकशिशुशारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति॥ १०९॥

अस्यावस्थानिवेदनात्प्रयोज्य ॰ ॰ ॰ भेदः।

(४३. अवस्थाज्ञानम्)

सखी—दूती—नायकोदासीनेषु दृष्टश्रुतानुमितभेदावस्थाज्ञानं प्रपञ्चः। तत्र —

१. सख्या दृष्टं यथा—

प्रम्लानोत्पलकोमले सखि दृशौ नीलाञ्जनेनाञ्चिते कर्पूरच्छुरणाच्च गण्डफलके संवर्गिकः/र्धिंतः पाण्डिमा।

Showing 391 to 400 of 765 verses