५. दूत्या श्रुतं यथा—(मामा. ३.१३)
यदि तद्विषयोऽनुरागबन्धः स्फुटमेतद्धि फलं मनोज्ञतायाः।
इति नन्दितमप्यवस्थयास्याः हृदयं दारुणया विदार्यते मे॥ ११४॥
६. दूत्यानुमितं यथा—(मामा. ४.२)
ईषत्तिर्यग्वलनविषमं कूणितप्रान्तमेतत् प्रेमोद्भेदस्तिमितललितं किञ्चिदाकुञ्चितभ्रु।
अन्तर्मोदानुभवमसृणस्रस्तनिष्कम्पपक्ष्म— व्यक्तं शंसत्यचिरमनयोर्दृष्टमाकेकराक्षम्॥ ११५॥
७. नायकस्य दृष्टं यथा—(शाकु. ३.८)
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी॥ ११६॥
८.नायकस्य श्रुतं यथा—(सूमु. १.६०)