११. अनुमितं यथा—(मामा. ३. ९)
यदिन्दावानन्दं प्रणयिनि जने वा न भजते व्यनक्त्यन्तस्तापं तदयमतिधीरोऽपि विषमम्।
प्रियङ्गुश्यामाङ्गप्रकृतिरपि चापाण्डु मधुरं वपुः क्षामं क्षामं वहति रमणीयश्च भवति॥ १२१॥
१२. नायिकातो नायकस्य श्रुतं यथा—(शाकु. ३.१३)
तुह/तुज्झ ण आणे हिअअं मह अण मअणो दिवा वि रत्तिं वि।
णिग्घिण तवेइ बलिअं तुइ जुत्तमणोरहं हिअअं॥ १२२॥
(तव न जाने हृदयं मम पुनः मदनो दिवापि रात्रिमपि।
निर्घृण! तपति बलीयः त्वयि युक्तमनोरथं हृदयम्॥)
१३. नायकतो नायिकाया यथा—(शाकु. ३.१४)
तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव।