तेषां दिवसानां स्मरणे रोदिमि न पुनरहं कुपिता॥)
३. यौवनानुजरागजन्मा यौवनजः, स यथा—(गास. ९२४वे.)
अइ पीणत्थण उत्थंभिआणणे सुअणु सुणसु मह वअणं।
अथिरम्मि जुज्जइ ण जोव्वणंमि माणो पिए काउँ॥ ९३॥
(अतिपीनघनस्तनोत्तम्भितानने सुतनु श्रृणु मम वचनम्।
अस्थिरे युज्यते न यौवने मानः प्रिये कर्तुम्॥)
ज्योतिर्भ्यस्तदिदं तमः समुदितं जातोऽयमद्भ्यश्शिखी पीयूषादिदमुच्छ्रितं विषमयं च्छायाप्तजन्मातपः।
को नामास्य विधिः प्रशान्तविधये बाढं द्रढीयानयं व्याधिर्यत्प्रियतोऽपि विप्रियमिदं सख्यः कृतं सान्त्वनैः॥ ९४॥*
५. विनाशकारणैरविनाशनीयः स्थिरः, यथा—(अमरु. ३८)