तन्वङ्गयास्त्वमिति प्रमोदविशदं नास्तीति खेदालसं चक्षुर्द्वारपथावतारिणि जने व्यापारयन्त्या मुहुः।
हर्षार्तिप्रभवप्रतिक्षणभवस्वेदाम्बुदाहज्वरे बाष्पाम्भःकणिकाः पयोधरतटे पुष्यन्ति शुष्यन्ति च॥ ११७॥
९. नायकस्यानुमितं यथा—(शाकु. २.२)
स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव। मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी सर्वं तत् किल मत्परायणमहो कामी स्वतां पश्यति॥ ११८॥
एवं नायकविषये सख्यादीनां दृष्टं यथा—(मामा. १.३५)
मा मूमुहत् खलु भवन्तमनन्यजन्मा मा ते मलीमसविकाराघना मतिर्भूत्।
इत्यादि नन्विह निरर्थकमेव यस्मिन् कामश्च जृम्भितगुणो नवयौवनं च॥ ११९॥
१०. श्रुतं यथा—(मामा. ३.१२)
धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते मार्गे गात्रं क्षिपति वकुलामोदगर्भस्य वायोः।
भा(दा)वप्रेम्णा सरसबिसिनीपत्रमात्रोत्तरीय— स्ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान्॥ १२०॥