४. पात्रावधानं यथा—(मामा. ६.६)
इयमवयवैः पाण्डुक्षामैरलङ्गकृतमण्डना कलितकुसुमा वल्ली/बालेवान्तर्लता परिशोषिणी। वहति च वरारोहा रम्यां विवाहमहोत्सव— श्रियमुदयिनीमत्यर्थं च व्यनक्ति मनोरुजम्॥ १२९॥
५. दूत्या देशावधानं यथा—(मामा. ६.१९)
६. कालावधानं यथा—(मामा. २.१२)
क्षिपन्निद्रामुद्रां मदनकलहच्छेदसुभगा— मुपान्तोत्कम्पानां विहगमिथुनानां प्रथमतः।
दधानस्सौधानामलघुषु निकुञ्जेषु घनता— मसौ सन्ध्याशाङ्खध्वनिरनिभृतः खे विचरति॥ १३१॥
७. कार्यावधानं यथा—(मामा. २.१३)
वरेऽन्यस्मिन् द्वे/दोषः पितरि विचिकित्सा च जनिता पुरावृत्तोद्गारैरपि च कथिता कार्यपदवी।