भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 481 to 490 of 1822 verses
यद् गम्यं गुरुगौरवस्य सुहृदो यस्मिन् लभन्तेऽन्तरं यद्दाक्षिण्यवशादुपैति सहते यच्चोपचारानपि।

यल्लज्जा विरुणद्धि यत्र शपथैरुत्पाद्यते प्रत्ययः तत्किं प्रेम स उच्यते परिचयस्तत्रापि कोपेन किम्॥ १०४॥

१५. (अनुद्‍भिन्न)मुद्धिन्नहृद्‍गतार्थोऽनृजुः, स यथा— (अमरु. ९४)

इदं कृष्णं कृष्णं प्रियतम! ननु श्वेतमथ किं गमिष्यामो यामो भवतु गमनेनापि भवतु।

पुरा येनैवं मे चिरमनुसृता वाक्यपदवी स एवान्यो जातः सखि! परिचिताः कस्य पुरुषाः॥ १०५॥

१६. ऋजुप्रत्यनीकरूपो वक्रः, स यथा—

अङ्गस्यास्य मम स्वभावतनुता मातः करोम्यत्र किं जाते जागरणारुणे च नयने व्यालोलतारे यदि।

कोपस्यावसरोऽत्र कः कथमपि स्मेरं च नाभून्मुखं तेनोक्तः सखि! किञ्चिदेष चरणावाक्रम्य येन स्थितः॥ १०६॥

१७. प्रशमयितुं शक्यसाधनः साध्यः। स यथा—

तं णत्थि जं सहिअणो ण भणेज्ज पच्छक्खमंतुदूमिअहिअअं।

Showing 481 to 490 of 1822 verses