यद् गम्यं गुरुगौरवस्य सुहृदो यस्मिन् लभन्तेऽन्तरं यद्दाक्षिण्यवशादुपैति सहते यच्चोपचारानपि।
यल्लज्जा विरुणद्धि यत्र शपथैरुत्पाद्यते प्रत्ययः तत्किं प्रेम स उच्यते परिचयस्तत्रापि कोपेन किम्॥ १०४॥
१५. (अनुद्भिन्न)मुद्धिन्नहृद्गतार्थोऽनृजुः, स यथा— (अमरु. ९४)
इदं कृष्णं कृष्णं प्रियतम! ननु श्वेतमथ किं गमिष्यामो यामो भवतु गमनेनापि भवतु।
पुरा येनैवं मे चिरमनुसृता वाक्यपदवी स एवान्यो जातः सखि! परिचिताः कस्य पुरुषाः॥ १०५॥
१६. ऋजुप्रत्यनीकरूपो वक्रः, स यथा—
अङ्गस्यास्य मम स्वभावतनुता मातः करोम्यत्र किं जाते जागरणारुणे च नयने व्यालोलतारे यदि।
कोपस्यावसरोऽत्र कः कथमपि स्मेरं च नाभून्मुखं तेनोक्तः सखि! किञ्चिदेष चरणावाक्रम्य येन स्थितः॥ १०६॥
१७. प्रशमयितुं शक्यसाधनः साध्यः। स यथा—
तं णत्थि जं सहिअणो ण भणेज्ज पच्छक्खमंतुदूमिअहिअअं।