दोब्बल्लगलिअवलओमि/वलआए परिगआ मंगलपईवा॥ १२१॥
(क्षणप्रतिपदायां पथदैवतानां दीयमाने पथिकगृहिण्या।
दौर्बल्यगलितवलयया परिगता मङ्गलप्रदीपाः॥)
घनगिरीन्द्रविलङ्घनशालिना वनगता वनजद्युतिलोचना।
जन/ हनुमता ददृशे जनकात्मजा तरुमृगेण तरुस्थलशायिनी॥ १२२॥
आधिक्षामां विरहशयने सन्निषण्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः।
नीता रात्रिः क्षणमि(इ)व मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥ १२३॥