न किल भवता देव्याः स्थानं गृहेऽभिमतं कृतं तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता।
चिरपरचिताश्चैते भावाः परिद्रवयन्ति मा— मिदमशरणैरद्यास्माभिः प्रसीदत रुद्यते॥ ११४॥
१५. अवस्थानुभवो यथा—(सेब. ११.९९)
लोअणवइअर—लग्गं तंसणिसण्णाइ तीए तिअटावच्छे।
गलिअं कवोलपेल्लणवीलपीडज्जंतालउग्गअं बाहजलं॥ ११५॥
(लोचनव्यतिकर—लग्नं तिर्यङ्निषण्णायाः तस्याः त्रिजटावक्षसि।
गलितं कपोलप्रेरणपीड्यमानालकोद्गतं बाष्पजलम्॥)
सव्वग्ग—णिसण्णाए णीसेस—क्खविअ—तिवलिअं/भंग—णिराओ।