२. अनुशोचनं यथा—(कुसं. ४.१२)
नयनान्यरुणानि घूर्णयन् वचनानि स्खलयन् पदे पदे।
असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बनम्॥ १२१॥
हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः।
वद सम्प्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति॥ १२२॥
३. गुणसंस्मरणं यथा—(कुसं. ४.२३)
ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः।
मधुना सह संस्थितां कथां नयनोपान्तविलोकितं मयि॥ १२३॥