(पृथिव्याः भविष्यति पतिः बहुपुरुषविशेषचञ्चला राज्यश्रीः।
मन्ये मम एव इदं निस्सामान्यमुपस्थितं वैधव्यम्॥)
५. विलापो यथा—(कुसं. ४.७)
कृतवानसि विप्रियं न मे प्रतिकूलं च मया न ते कृतम्।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते॥ १२७॥
मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम्।
ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः॥ १२८॥
६. प्रलापो यथा—(कुसं. ४.९)
हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम्।