उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः॥ १२९॥
ध्रुवमस्मि शठः शुचिस्मिते! विदितः कैतववत्सलस्तव।
परलोकमसन्निवृत्तये यदनापृच्छ्य गतासि मामितः॥ १३०॥
७. प्रविलापो यथा—(रघु. ८.६१)
मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ।
अविधाय विवाहसंस्क्रियामनयोर्गम्यत इत्यसाम्प्रतम्॥ १३१॥
तव निःश्वसितानुवादिभिः वकुलैरर्धचितां समं मया।
असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि! सुप्यते॥ १३२॥