यत् महिलाबीभत्सं द्ृष्टं सोढं च (तव मया अवसानम्)॥}
सहिअं रक्खसवसई दिठ्ठं तुह तह एरिसं अवसाणं।
अज्ज वि वअणिज्जहअं धूमाइ विअ ण पज्जलइ मे हिअअं॥ १३६॥
{सोढं राक्षसवसतौ द्ृष्टं तव ततः ईद्ृशमवसानम्।
अद्यापि वचनीयहतं धूमायते एव न प्रज्वलति मे हृदयम्॥}*
११. जीवितजुगुप्सा यथा—(रघु. ८.५०)
दयितां यदि तावदन्वगाद् विनिवृत्तं किमिदं तया विना।
सहतां हतजीवितं मया प्रबलामात्मकृतां च वेदनाम्॥ १३७॥