देइ पहदेवआणं भामं भामं च णवपईवं॥ १३९॥
(निःसहवेपनशीलशिखं पथिकवधूः बाष्पसलिलसिच्यमानम्।
ददाति पथदैवतानां भ्रामं च नवप्रदीपम्॥)
गिम्हं गमेइ कह कह वि विरहसिहि—ताविआ वि पहिअवहू।
अविरअ—पडंत—णिब्भर—वाहजलोल्ला—वरिल्लेण ॥ १४०॥
(ग्रीष्मं गमयति कथं कथमपि विरहशिखितापितापि पथिकवधूः।
अविरत—पत्रन्निर्भर—बाष्प—जलार्द्रेण वस्त्रेण॥)
२८. अधिकरणं यथा—(गास. ४.१५)
झंझावाओत्तिणिए घरम्मि रोत्तूण णीसहणिसण्णं।