दावेइ व्व गअवइअं विज्जुज्जोओ जलहराणं॥ १४१॥
(झञ्झावातोत्तृणिते गृहे रुदित्वा निःसहनिषण्णाम्।
दर्शयतीव गतपतिकां विद्युद्द्योतो जलधराणाम्॥)
२९. स्वाभाविको यथा—(गास. ८३४वे.)
उप्पेक्खागअ—दलिअंग—संगमुच्चिलिअ—विउणसेआए।
बोलीणो वि ण णाओ पउत्थपइआए हेमंतो॥ १४२॥
(उत्प्रेक्षागतदलिताङ्गसङ्गमोच्चलितद्विगुणस्वेदया।
अतिक्रान्तोऽपि न ज्ञातः प्रोषितपतिकया हेमन्तः॥)
३०. प्रायत्निको यथा—(गास. २.३३)