८. विप्रलापो यथा—(कुसं. ४.६)
क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः।
नलिनीं क्षतसेतुबन्धनो जलसङ्घात इवासि विद्रुतः॥ १३३॥
समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः।
अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः॥ १३४॥
९. आत्मनिन्दा यथा—(सेब. ११.७४)
आवाअभअअरं चिअ ण होइ दुक्खस्स दारुणं णिव्वहणं।
जं महिलावीहच्छं दिठ्ठं सहिअं च तुह मए अवसाणं॥ १३५॥
{आपातभयकरमेव न भवति दुःखस्य दारुणं निर्वहणम्।