१६. सङ्केतभ्रष्टा विप्रलब्धा यथा—(रघु. १९.१७)
अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम्।
मेखलाभिरसकृच्च बन्धनं वञ्चयन् प्रणयिनीरवाप सः॥ १२३॥
एतासु हि प्रायेण नात्युत्कर्षान्नातिप्रगल्भान्नात्यादरान्नातिविस्रम्भादतिकौटिल्या— दनत्यासङ्गादत्यवज्ञातोऽतिरोषाच्च सङ्कीर्णा एव विकल्पसमुच्चयाभ्यामालिङ्गनादय उपचारा भवन्ति।
सम्पूर्णत्वे ज्येष्ठा, प्रगल्भा, अधीरा, धीरललिता, स्वैरिणी, गणिका, वासकसज्जा, विरहोत्कण्ठितेति। तासु—
१७. प्रथमोढा ज्येष्ठा यथा—(रत्ना. ३.१४)
आताम्रतामपनयामि विलक्ष एव लाक्षाकृतां चरणयोस्तव देवि! मूर्ध्ना।
कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमा यदिपरं करुणा मयि स्यात्॥ १२४॥
१८. रत्युपचारचतुरा प्रगल्भा यथा—(गास. ३.९९)
खिण्णस्स इरे/उरे पइणो विइल/ठवेइ गिंहावरण्हे रमिअस्स।