शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च।
सुरतानि च तानि ते रहः स्मर! सञ्चिन्त्य न शान्तिरस्ति मे॥ १२४॥
४. स्वभाग्यगर्हणं यथा—(सेब. ११.७६)
विरहम्मि तुज्झ धरिअं दच्छामि तुमं त्ति हअजीविअं कह वि मए।
तीए ससि(एअं) में दिट्ठो फलिआ वि मणोरहा ण पूरेन्ति महं॥ १२५॥
(विरहे तव धृतं द्रक्ष्यामि त्वांमिति हतजीवितं कथमपि मया।
तस्या एवमसि मे दृष्टः फलिता अपि मनोरथाः न पूर्यन्ते मम॥)
पुहईए होहिइ पई बहुपुरिसविवेसचंचला राअसिरी।
मणे महं चिअ इमं णीसामण्णं उअट्ठिअं वेहव्वं॥ १२६॥